शुक्लयजुर्वेदीय प्रातः-मध्याह्न-सायं सन्ध्या प्रयोग:

Share

।। शुक्लयजुर्वेदीय प्रातः-मध्याह्न-सायं सन्ध्या प्रयोग: ।।

॥ अथ शुक्लयजुर्वेदीयप्रातःसन्ध्याप्रयोगः ॥

॥ भस्मधारणम् ॥
ॐ अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वꣳ हवाऽ इदम भस्म मनऽ एतानि चक्षूꣳषि भस्मानि ॥

॥ गायत्रिमन्त्रः ॥
ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ।
धियोयोनः प्प्रचोदयत् ।।

ॐ त्र्यम्बकमित्यस्य वसिष्ठ ऋषिः रुद्रो देवता अनुष्ठुब्छन्दः भस्माभिमन्त्रणे विनियोगः ॥
ॐ त्र्ययम्बकँय्यजामहेसुगन्धिम्पुष्ट्टिवर्द्धनम् ।
उर्व्वारुकमिव बन्धनान्न्मृत्योर्म्मुक्षीयमामृतात् ।।

ॐ त्र्यायुषमित्यस्य नारायण ऋषिः रुद्रो देवता उषिणक्छन्दः भस्मधारणे विनियोगः ॥
ॐ त्र्यायुषञ्जमदग्ग्नेः कश्श्यपस्यत्र्यायुषम् । यद्देवेषुत्र्यायुषन्तन्नोऽ अस्तुत्र्यायुषम् ।।

॥ आचमनम् ॥
ॐ केशवाय नमः स्वाहा ।
ॐ नारायणाय नमः स्वाहा ।
ॐ माधवाय नमः स्वाहा ।
ॐ गोविन्दाय नमः इति हस्तं प्रक्षाल्यम् ।

अथ देवतानमस्कारः ॥
ॐ विष्णवे नमः।
ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः।
ॐ ऋषिकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ दमोदकराय नमः ।
ॐ सङ्कर्षणाय नमः ।
ॐ वासुदेवाय नमः।
ॐ प्रद्युम्नाय नमः।
ॐ अनिरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः।
ॐ नृसिंहाय नमः ।
ॐ अच्युताय नमः।
ॐ जनार्दनाय नमः।
ॐ उपेन्द्राय नमः ।
ॐ श्रीहरये नमः।
ॐ श्रीकृष्णाय नमः ।

॥ विनियोगः ॥
ॐ प्रणवस्य परब्रह्म ऋषिः परमात्मा देवता दैवी गायत्री छन्दः प्राणायामे विनियोगः ॥
प्राणायामः :- ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम्
ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः प्प्रचोदयत् ।
ॐ आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् ॥
एवं पूरकः कुम्भकः रेचकः इति क्रमेण त्रिवारं पठेत् ॥

शिखाबन्धनम् ॥
ॐ मनस्तोक इति मन्त्रस्य कुत्स ऋषिः जगती छन्दः एको रुद्रो देवता शिखाबन्धने विनियोगः ॥

ॐमनस्तोकेतनयेमानऽआयुषिमानोगोषुमानोऽ अश्श्वेषुरीरिषः । मानोव्वीरान्न्रुद्रभामिनोव्वधीर्हवीष्म्मन्तः सदामित्वाहवामहे ।।

॥अङ्गन्यासः ॥
ॐ विष्णुर्विष्णुः वाक् वाक् प्राणः प्राणः चक्षुः चक्षुः श्रोत्रं श्रोत्रं नाभिः हृदयं कण्ठेः मुखं शिरः शिखा बाहुभ्यां यशोबलम् ॥

॥ मार्जनम् ॥
ॐ अपवित्रः पवित्रो वा
सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं
स बाह्याभ्यन्तरः शुचिः ॥
ॐ पवित्रेस्थोव्वैष्णव्यौसवितुर्वः प्रसवऽ उत्त्पुनाम्म्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः तस्यते पवित्रपते पवित्र पूतस्य यत्त्कामः पुनेतच्छकेयम् ॥

॥ सङ्कल्पः ॥
ॐ अत्राद्य महामाङ्गल्य फलप्रदमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं ब्रह्मवाप्तये प्रातःसन्ध्योपासनमहं करिष्ये ॥

॥ भूमिप्रार्थना विनियोगः ॥
ॐ पृथिवीत्यस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः ॥
ॐ पृथ्वि त्वया धृता लोका
देवि त्वं विष्णुना धृता ।
त्वञ्च धारय मां देवि
पवित्रं कुरु चासनम् ।।
ॐ कूर्माय नमः ।
ॐ शेषाय नमः ।
ॐ अनन्ताय नमः ।

॥ भूतशुद्धिः ॥
ॐ अपसर्पन्तु ते भूता
ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तार
स्ते नश्यन्तु शिवाज्ञया ।।
अपक्रमन्तु भूतानि
पिशाचाः सर्वतोदिशम् ।
सर्वेषामविरोधेन
सन्ध्याकर्म समारम्भे ।।

।। मार्जनम् ।।
ॐ भुः पुनातु (शिरसि) ।
ॐ भुवः पुनातु (नेत्रयोः) ।
ॐ स्वः पुनातु (कण्ठे) ।
ॐ महः पुनातु (हृदये) ।
ॐ जनः पुनातु (नाभ्याम्) ।
ॐ तपः पुनातु (पादयोः) ।
ॐ सत्यं पुनातु (पुनः शिरसि) ।
ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः प्प्रचोदयत् ॥ (सर्वाङ्गं पुनातु)

॥ करन्यासः ॥
ॐ अङ्गुष्ठाग्रे तु गोविन्दं
तर्जन्यां तु महीधरम् ।
मध्यमायां ऋषिकेश
मनामिक्यां त्रिविक्रमम् ॥
कनिष्ठिक्यान्न्यसेद्विष्णुं
करमध्ये त् माधवम् ।
करपृष्ठे हरिं विद्यन्
मणिबन्धे जनार्दनम् ॥

॥ गायत्रीषडङ्गन्यासाः ॥
ॐ भुः हृदयाय नमः ।
ॐ भुवः शिरसे स्वाहा ।
ॐ स्वः शिखायै वषट् ।
ॐ तत्सवितुर्व्वरेण्ण्यं कवचाय हुम् ।
ॐ भर्ग्गो देवस्य धीमहि नेत्रत्रयाय वौषट्।
ॐ धियोयोनः प्प्रचोदयत् अस्त्राय फट् ।

॥ प्रणवन्यासाः ॥
ॐ अकारम् नभौ ।
ॐ उकारम् हृदये ।
ॐ मकारम् मूर्ध्नि ।
ॐ भुः पादयोः ।
ॐ भुवः जान्वोः ।
ॐ स्वः ऊर्वोः ।
ॐ महः जठरे ।
ॐ जनः कण्ठे ।
ॐ तपः मुखे ।
ॐ सत्यम् शिरसि ।
ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः प्प्रचोदयत् ॥ (सर्वाङ्गे)

॥ गायत्र्यावाहानम् ॥
ॐ गायत्रीं त्र्यक्षरां बालां
साक्षसूत्रकमण्डलुम् ।
रक्तवस्त्रां चतुर्हस्तां
हंसवाहन्संस्थिताम् ।।
ब्रह्माणीं ब्रह्मदैवत्यां
ब्रह्मलोकानिवासिनीम् ।
आवाहयाम्यहं देवी
मायान्तीं सूर्यमण्डलात् ।।
आगच्छ वरदे देवि
त्र्यक्षरे ब्रह्मवादिनि ।
गायत्रि छन्दसां मात
र्ब्रह्मयोनि नमोऽस्तु ते ॥

॥ अम्बुप्राशनम् विनियोगः ॥
ॐ सूर्यश्चमेत्यस्य नारायणः ऋषिः सूर्यो देवता अनुष्टुब्छ्न्दः अम्बुप्राशने विनियोगः ।।
ॐ सूर्यश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यद्रात्र्या पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि इदमहं माममृतयोनौ सूर्य्ये ज्योतिषि जुहोमि स्वाहा ।।

॥ मार्जनम् विनियोगः ॥
ॐ आपोहिष्ठेति तिसृणां सिन्धुद्विप ऋषिः गायात्रिछ्न्दः आपोदेवता मार्जने विनियोगः ॥
ॐ आपोहिष्ठ्ठामयो भुवस्तानऽ ऊर्ज्जेदधातन ।
महेरणाय चक्षसे योवः शिव तमोरस स्तस्य भाजयतेहनः ।
उशतीरिवमातरः तस्म्माऽ अरङ्ग मामवोयस्य क्षयायजिन्न्वथऽ आपो जनयथाचनः ।।

॥ अघमर्षणम् विनियोगः॥
ॐ द्रुपादिवेत्यस्य कोकिलराजपुत्र ऋषिः अनुष्ठुब्छन्दः आपो देवता अघमर्षणे विनियोगः॥
ॐ द्रुपदादिवमुमुचानः स्विन्नःस्नातोमलादिव । पूतम्पवित्रेणेवाज्ज्यमापः शुन्धन्तुमैनसः ।।
(अनेन मन्त्रेण पापं ध्यात्वा तज्जलं वामतः क्षिपेत्)

॥ अर्घ्यम् ॥
ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ।
धियोयोनः प्प्रचोदयत् ।।
ॐ प्रातः सन्ध्यायां ब्रह्म स्वरूपिणे सवित्रे सूर्यनारायणाय नमः ।
इदमर्घ्यं दत्तं न मम ॥
(एवम त्रिवारं अर्घ्यं दद्यात्)
ॐ असावादित्यो ब्रह्म

॥ सूर्योपस्थानम् ॥
ॐ उद्वयन्तमसस्प्परिस्वः पश्श्यन्तऽ उत्तरम् ॥
देवन्देवत्र सूर्य्य्मगन्न्मज्ज्योतिरुत्तमम् ।
उदुत्त्यञ्जातवेदसन्देवं व्वहन्ति केतवः ।
दृशेव्विश्श्वायसूर्य्यम् ।।
ॐ चित्रन्देवानामुदगादनी कं चक्षुर्म्मित्रस्यव्वरुणस्याग्ग्नेः । आप्प्राद्ध्यावापृथिवीऽ अन्तरिक्षꣳ सूर्य्यऽआत्क्मा जगतस्तस्थुषश्च ।।
ॐ तच्चक्षुर्द्देवहितम्पुरस्ताच्छुक्रमुच्चरत् ।
पश्श्येमशरदः शतञ्जीवेमशरदः शतꣳशृणुयामशरदः शतम्प्रब्ब्रवाम शरदः शतमदीनाः स्यामशरदः शतम्भूयश्श्च्चशरदः शतात् ।।

॥गयात्र्यावाहन विनियोगः॥
ॐ तेजोसीत्यस्य परमेष्ठी प्रजापतिरृषिः
आज्यं देवता जगती छन्दःयजुर्गायत्र्यावाहने विनियोगः ।।

ॐतेजोसिशुक्क्रमस्यमृतमसिधामनामासिप्प्रियन्देवानामनाधृष्ट्टन्देवयजनमसि ॥

॥ अथ मुद्रप्रदर्शनम् ॥
ॐ सुमुखं सम्पुटं चैव
विततं विस्तृतं तथा ।
द्विमुखं त्रिमुखं चैव
चतुष्पञ्चमुखं तथा ॥
षण्मुखाधोमुखं चैव
व्यापकाञ्जलिकं तथा ।
शकटं यमपाशं च
ग्रथितं चोन्मुखोन्मुखम् ॥
प्रलम्बं मुष्टिकं चैव
मत्स्यः कूर्मो वराहकम्।
सिंहाक्रान्तां महाक्रान्तं
मुद्गरं पल्लवं तथा॥

॥ शापविमोचनम् ॥
ॐ भो गायत्रि देवि त्वं ब्रह्मशापाद्विमुक्ता भव ॥
ॐ भो गायत्रि देवि त्वं वसिष्ठशापाद्विमुक्ता भव ॥
(महामुद्रं (योनिमुद्रां) प्रदर्श्य त्रिवारं मनसि गायत्रीमन्त्रं जपेत्)

ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ।
धियोयोनः प्प्रचोदयत् ॐ ।।

ॐ भो गायत्रि देवि त्वं विश्वामित्रशापाद्विमुक्ता भव ॥
ॐ भो गायत्रि देवि त्वं शुक्रशापाद्विमुक्ता भव ॥

॥ अथ गायत्रीध्यानम् ॥
मुक्ताविद्रुमहेमनीलधवल
च्छायैर्मुखैस्त्रीक्षणै,
र्युक्तामिन्दुनिबद्धरत्नमुकुटां
तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशां
शुभ्रं कपालं गुणं,
शङ्खं चक्रमथारविन्दयुगलं
हस्तैर्वहन्तीं भजे ॥

॥ पश्चाद् १०८ वारं गायत्रीमन्त्रं जपेत् ॥
ॐ सुरभिर्ज्ञानं वैराग्यं योनिः शङ्खोऽथ पङ्कजम् लिङ्गं निर्वाणेति जपेत् ॥

॥ जपार्णम् ॥
ॐ अनेन प्रातःसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन गायत्री देवी प्रीयतां न मम ॥

॥ प्रार्थना ॥
ॐ यदक्षरपदभ्रष्टं
मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यतां देवि
प्रसीद परमेश्वरि ॥
उत्तरे शिखरे देवि
भूम्यां पर्वतमूर्धनि ।
ब्रह्मणेभ्योऽभ्यनुज्ञाता
गच्छ देवि यथासुखम् ॥

॥ गोत्रप्रवरोच्चारणपूउर्वकमभिवादनम् ॥
ॐ अमुकगोत्रोत्पन्नः अमुकप्रवरान्वितः शुक्लयजुर्वेदान्तर्गतवाजसनेयि माध्यान्दिनीयशाखाध्यायी अमुकशर्माहम् ॥
भो आचार्य ! त्वामभिवादयामि ।
भो वैश्वानर ! त्वामभिवादयामि ।
भो सूर्यचन्द्रमसौ ! युवामभिवादयामि ।
भो मातापितरौ ! युवामभिवादयामि ।
भो याज्ञवल्क्य ! त्वामभिवादयामि ।
भो ईश्वर ! त्वामभिवादयामि ।

॥ सन्ध्यार्पणम् ॥
ॐ अनेन प्रातः सन्ध्योपासनाख्येन कर्मणा भगवान् ब्रह्मस्वरूपी परमेश्वरः प्रीयतां न मम ॥
ॐ तत्सद् ब्रह्मार्पणमस्तु ॥(त्रिराचमेत्)

॥ हस्तौ बद्धवा ॥
ॐ यस्य स्मृत्या च नामोक्त्या
तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति
सद्यो वन्दे तमच्युतम् ।।

ॐ विष्णवे नमः ।
ॐ विष्णवे नमः ।
ॐ विष्णवे नमः ।
ॐ तत्सद् ब्रह्मार्पणमस्तु ॥
इति प्रातः सन्ध्याप्रयोगः ॥

॥ अथ शुक्लयजुर्वेदीयमध्याह्नसन्ध्याप्रयोगः ॥

॥ सङ्कल्पः ॥
ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं रुद्रावाप्तये मध्याह्नसन्ध्योपासनमहं करिष्ये ॥

॥सावित्र्यावाहनम् ॥
ॐ सावित्रीं युवतीं शुक्लां
शुक्लवस्त्रां त्रिलोचनाम् ।
त्रिशूलिनीं वृषारूढां
रुद्ररूपिणीसंस्थिताम् ।।
रुद्राणीं रुद्रदैवत्यां
रुद्रलोकानिवासिनीम् ।
आवहयाम्यहं देवी
मायान्तीं रुद्रमण्डलात् ॥
आगच्छ वरदे देवि
त्र्यक्षरे रुद्रवादिनि ।
सावित्रि छन्दसां मात
र्रुद्रयोनि नमोऽस्तुते ॥

॥ अम्बुप्राशनम् विनियोगः ॥
ॐ आपः पुनन्त्विति मन्त्रस्य नारायण ऋषिः आपो देअवता गायात्री छन्दः अम्बुप्राशने विनियोगः ॥
ॐ आपः पुनन्तु पृथवीं पृथवीपूता पुनातु माम् ।
पुनन्तु ब्रह्मणस्पतिर्ह्मपूता पुनातु माम् ।
यदुच्छिष्टमभोज्यं च यद्वादुश्चरितं मम ।
सर्वां पुनन्तु मामापो सताञ्च प्रतिग्रहꣳस्वाहा ।।

॥ अर्घ्यम् ॥
(एकवारं गायत्रीमन्त्रेण अर्घ्यं दद्यात्)
ॐ आकृष्ण्णेनरजसाव्वर्त्तमानो निवेशयन्नमृतम्मर्त्यञ्च । हिरण्ण्ययेनसवितारथेनादेवोयाति भुवनानिपश्श्यन् ।।
ॐ मध्याह्नसन्ध्यायां रुद्र स्वरूपिणे सवित्रे सूर्यनारायणाय नमः ।
इदमर्घ्यं दत्तं न मम ॥
ॐ असावादित्यो ब्रह्म ॥

॥ जपार्णम् ॥
ॐ अनेन मध्याह्नसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन गायत्री देवी प्रीयतां न मम ॥

॥ सन्ध्यार्पणम् ॥
ॐ अनेन मध्याह्नसन्ध्योपासनाख्येन कर्मणा भगवान् रुद्रस्वरूपी परमेश्वरः प्रीयतां न मम ॥
ॐ तत्सद् ब्रह्मार्पणमस्तु ॥ ( त्रिराचमेत् )
॥ इति मध्याह्नसन्ध्याप्रयोगः ॥

॥ अथ शुक्लयजुर्वेदीयसायंसन्ध्याप्रयोगः ॥

॥ सङ्कल्पः ॥
ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं विष्णुवाप्तये सायंसन्ध्योपासनमहं करिष्ये ॥

॥ सरस्वत्यावाहनम् ॥
ॐ वृद्धां सरस्वतीं कृष्णां
पीतवस्त्रां चतुर्भुजाम् ।
शङ्खचक्रगदापद्म
हस्तां गरुडवाहिनीम् ॥
वैष्ण्वीं विष्णुदैवत्यां
विष्णुलोकनिवासिनीम् ।
आवाहयाम्यहं देवी
मायान्तीं विष्णुमण्डलात् ॥
आग्च्छ वरदे देवि
त्र्यक्षरे विष्णुवादिनि ।
सरस्वति छन्दसा मात
र्विष्णुयोनि नमोऽस्तुते ॥

॥ अम्बुप्राशनम् विनियोगः ॥
ॐ अग्निश्चमेत्यस्य नारायणः ऋषिः अग्निर्देवता अनुष्टुब्छ्न्दः अम्बुप्राशने विनियोगः ॥
ॐ अग्निश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यदह्ना पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना अहस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा ॥

॥ अर्घ्यम् ॥
(त्रिवारं गायत्रीमन्त्रेण अर्घ्यं दद्यात्)
ॐ सायंसन्ध्यायां विष्णु स्वरूपिणे सवित्रे सूर्यनारायणाय नमः ।
इदमर्घ्यं दत्तं न मम ॥

॥ जपार्णम् ॥
ॐ अनेन सायंसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन गायत्री देवी प्रीयतां न मम ॥

॥ सन्ध्यार्पणम् ॥
ॐ अनेन सायंसन्ध्योपासनाख्येन कर्मणा भगवान् विष्णुस्वरूपी परमेश्वरः प्रीयतां न मम ॥
ॐ तत्सद् ब्रह्मार्पणमस्तु ॥
( त्रिराचमेत् )

॥ इति सायंसन्ध्याप्रयोगः ॥